वांछित मन्त्र चुनें

वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑स॒: सन्तो॑ अमृत॒त्वमा॑नशुः। सौ॒ध॒न्व॒ना ऋ॒भव॒: सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभि॑: ॥

अंग्रेज़ी लिप्यंतरण

viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ | saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṁvatsare sam apṛcyanta dhītibhiḥ ||

मन्त्र उच्चारण
पद पाठ

वि॒ष्ट्वी। शमी॑। त॒र॒णि॒ऽत्वेन॑। वा॒घतः॑। मर्ता॑सः। सन्तः॑। अ॒मृ॒त॒ऽत्वम्। आ॒न॒शुः॒। सौ॒ध॒न्व॒नाः। ऋ॒भवः॑। सूर॑ऽचक्षसः। स॒म्व॒त्स॒रे। सम्। अ॒पृ॒च्य॒न्त॒। धी॒तिऽभिः॑ ॥ १.११०.४

ऋग्वेद » मण्डल:1» सूक्त:110» मन्त्र:4 | अष्टक:1» अध्याय:7» वर्ग:30» मन्त्र:4 | मण्डल:1» अनुवाक:16» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे कैसे हैं, यह विषय अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - जो (सौधन्वनाः) अच्छे ज्ञानवाले (सूरचक्षसः) अर्थात् जिनका प्रबल ज्ञान है (वाघतः) वा वाणी को अच्छे कहने, सुनने (मर्त्तासः) मरने और जीनेहारे (ऋभवः) बुद्धिमान् जन (संवत्सरे) वर्ष में (धीतिभिः) निरन्तर पुरुषार्थयुक्त कामों से कार्यसिद्धि का (समपृच्यन्त) संबन्ध रखते अर्थात् काम का ढङ्ग रखते हैं वे (तरणित्वेन) शीघ्रता से (विष्ट्वी) व्याप्त होनेवाले (शमी) कामों को करते (सन्तः) हुए (अमृतत्वम्) मोक्षभाव को (आनशुः) प्राप्त होते हैं ॥ ४ ॥
भावार्थभाषाः - जो मनुष्य प्रत्येक क्षण अच्छे-अच्छे पुरुषार्थ करते हैं, वे संसार से लेके मोक्षपर्यन्त पदार्थों को होकर सुखी होते हैं, किन्तु आलसी मनुष्य कभी सुखों को नहीं प्राप्त हो सकते ॥ ४ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्ते कीदृशा इत्युपदिश्यते ।

अन्वय:

ये सौधन्वनाः सूरचक्षसो वाघतो मर्त्तास ऋभवः संवत्सरे धीतिभिः सततं पुरुषार्थयुक्तैः कर्मभिः कार्यसिद्धिं समपृच्यन्त सम्यक् पृञ्चन्ति ते तरणित्वेन विष्ट्वी शमी कुर्वन्तः सन्तोऽमृतत्वं मोक्षभावमानशुरश्नुवन्ति ॥ ४ ॥

पदार्थान्वयभाषाः - (विष्ट्वी) व्यापनशीलानि (शमी) कर्माणि। विष्ट्वी शमीत्येतद्द्वयं कर्मनाम०। निघं० २। १। (तरणित्वेन) शीघ्रत्वेन (वाघतः) वाग्विद्यायुक्ताः (मर्त्यासः) मरणधर्माणः (सन्तः) (अमृतत्वम्) मोक्षभावम् (आनशुः) अश्नुवन्ति (सौधन्वनाः) शोभनविज्ञानाः (ऋभवः) मेधाविनः (सूरचक्षसः) सूरप्रज्ञानाः (संवत्सरे) वर्षे (सम्) (अपृच्यन्त) पृच्यन्ति (धीतिभिः) कर्मभिः। इमं मन्त्रं निरुक्तकार एवं समाचष्टे−कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो वा, मर्त्तासः सन्तोऽमृतत्वमानशिरे, सौधन्वना ऋभवः सूरख्याना वा सूरप्रज्ञा वा, संवत्सरे समपृच्यन्त धीतिभिः कर्मभिः, ऋभुर्विभ्वा बाज इति। निरु० ११। १६। ॥ ४ ॥
भावार्थभाषाः - ये मनुष्याः प्रतिक्षणं सुपुरुषार्थान् कुर्वन्ति ते मोक्षपर्यन्तान् पदार्थान् प्राप्य सुखयन्ति। न खल्वलसा मनुष्याः कदाचित् सुखानि प्राप्तुमर्हन्ति ॥ ४ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे प्रत्येक क्षणी चांगला पुुरुषार्थ करतात ती संसारापासून मोक्षापर्यंत पदार्थ प्राप्त करून सुखी होतात; परंतु आळशी माणसे कधी हे सुख प्राप्त करू शकत नाहीत. ॥ ४ ॥